हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Dhanvantari Ashtottara Shatanama Stotram – श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम्


धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः ।
जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १ ॥

निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः ।
आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २ ॥

निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः ।
नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥ ३ ॥

कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः ।
स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥ ४ ॥

प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् ।
भेषजग्रहणानेहः स्मरणीयपदाम्बुजः ॥ ५ ॥

नवयौवनसम्पन्नः किरीटान्वितमस्तकः ।
नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥ ६ ॥

दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽम्बुजेक्षणः ।
चतुर्भुजः शङ्खधरश्चक्रहस्तो वरप्रदः ॥ ७ ॥

सुधापात्रोपरिलसदाम्रपत्रलसत्करः ।
शतपद्याढ्यहस्तश्च कस्तूरीतिलकाञ्चितः ॥ ८ ॥

सुकपोलः सुनासश्च सुन्दरभ्रूलताञ्चितः ।
स्वङ्गुलीतलशोभाढ्यो गूढजत्रुर्महाहनुः ॥ ९ ॥

दिव्याङ्गदलसद्बाहुः केयूरपरिशोभितः ।
विचित्ररत्नखचितवलयद्वयशोभितः ॥ १० ॥

समोल्लसत्सुजातांसश्चाङ्गुलीयविभूषितः ।
सुधागन्धरसास्वादमिलद्भृङ्गमनोहरः ॥ ११ ॥

लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलः ।
लक्ष्मीशोभितवक्षस्को वनमालाविराजितः ॥ १२ ॥

नवरत्नमणीक्लुप्तहारशोभितकन्धरः ।
हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखः ॥ १३ ॥

विरजोऽम्बरसंवीतो विशालोराः पृथुश्रवाः ।
निम्ननाभिः सूक्ष्ममध्यः स्थूलजङ्घो निरञ्जनः ॥ १४ ॥

सुलक्षणपदाङ्गुष्ठः सर्वसामुद्रिकान्वितः ।
अलक्तकारक्तपादो मूर्तिमद्वार्धिपूजितः ॥ १५ ॥

सुधार्थान्योन्यसम्युध्यद्देवदैतेयसान्त्वनः ।
कोटिमन्मथसङ्काशः सर्वावयवसुन्दरः ॥ १६ ॥

अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुतः ।
पुष्पवर्षणसम्युक्तगन्धर्वकुलसेवितः ॥ १७ ॥

शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृतः ।
विष्वक्सेनादियुक्पार्श्वः सनकादिमुनिस्तुतः ॥ १८ ॥

साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षितः ।
साशङ्कसम्भ्रमदितिदनुवंश्यसमीडितः ॥ १९ ॥

नमनोन्मुखदेवादिमौलिरत्नलसत्पदः ।
दिव्यतेजःपुञ्जरूपः सर्वदेवहितोत्सुकः ॥ २० ॥

स्वनिर्गमक्षुब्धदुग्धवाराशिर्दुन्दुभिस्वनः ।
गन्धर्वगीतापदानश्रवणोत्कमहामनाः ॥ २१ ॥

निष्किञ्चनजनप्रीतो भवसम्प्राप्तरोगहृत् ।
अन्तर्हितसुधापात्रो महात्मा मायिकाग्रणीः ॥ २२ ॥

क्षणार्धमोहिनीरूपः सर्वस्त्रीशुभलक्षणः ।
मदमत्तेभगमनः सर्वलोकविमोहनः ॥ २३ ॥

स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिः ।
रत्नदर्वीलसद्धस्तो देवदैत्यविभागकृत् ॥ २४ ॥

सङ्ख्यातदेवतान्यासो दैत्यदानववञ्चकः ।
देवामृतप्रदाता च परिवेषणहृष्टधीः ॥ २५ ॥

उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकः ।
पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहरः ॥ २६ ॥

राहुकेतुग्रहस्थानपश्चाद्गतिविधायकः ।
अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनः ॥ २७ ॥

गरुत्मद्वाहनारूढः सर्वेशस्तोत्रसम्युतः ।
स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजितः ॥ २८ ॥

मोहिनीदर्शनायातस्थाणुचित्तविमोहकः ।
शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुतः ॥ २९ ॥

वेदान्तवेद्यमहिमा सर्वलोकैकरक्षकः ।
राजराजप्रपूज्याङ्घ्रिः चिन्तितार्थप्रदायकः ॥ ३० ॥

धन्वन्तरेर्भगवतो नाम्नामष्टोत्तरं शतम् ।
यः पठेत्सततं भक्त्या नीरोगः सुखभाग्भवेत् ॥ ३१ ॥

इति बृहद्ब्रह्मानन्दोपनिषदान्तर्गतं श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम् ।


Sri Vishnu Stotras – श्री विष्णु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.